Advertisements

Chinnamasta (छिन्नमस्ता )

Chinnamastra Mantra  Sadhana Evam Siddhi

For Astrology, Chinnamastra Mantra Diksha & Sadhana guidance email to shaktisadhna@yahoo.com or call us on 9410030994, 9540674788

Ekakshara Mantra of Ma Chinnamastika ( Bija Mantra )

chinnamasta bija mantra

 

 

Shri Chinanamastika Triyakshara Mantra

Chinnamasta Triyakshara Mantra

छिन्नमस्तिका की उत्पत्ति

हज़ारों साल पहले राक्षसों एवं दैत्यों से मानव एवं देवता आतंकित थे। उसी समय मानव मां शक्ति को याद करने लगे। तब पार्वती (शक्ति) का ‘छिन्नमस्तिका’ के रूप में अवतरण हुआ। छिन्नमस्तिका का दूसरा नाम ‘प्रचण्ड चण्डिका’ भी है। फिर मां छिन्नमस्तिका खड़ग से राक्षसों-दैत्यों का संहार करने लगीं। यहां तक कि भूख-प्यास का भी ख्याल नहीं रहा, सिर्फ पापियों का नाश करना चाहती थीं। रक्त की नदियां बहने लगीं। पृथ्वी में हाहाकार मच गया। मां अपना प्रचण्ड रूप धारण कर कर चुकी थीं। पापियों के अलावा निर्दोषों का भी वध करने लगीं। तब सभी देवता प्रचण्ड शक्ति से घबड़ाकर भगवान शिव के पास गये और शिव से प्रार्थना करने लगे कि मां छिन्नमस्तिका का प्रचण्ड रूप को रोकें, नहीं तो पृथ्वी पर उथल-पुथल हो जायेगी।

देवताओं की प्रार्थना सुनकर भगवान शिव मां छिन्नमस्तिका के  पास पहुंचे। मां छिन्नमस्तिका भगवान शिव को देखकर बोली- “हे नाथ! मुझे भूख सता रही है। अपनी भूख कैसे मिटाऊं?” भगवान शिव ने कहा कि- “आप पूरे ब्रह्माण्ड की देवी हैं। आप तो खुद एक शक्ति हैं। तब भगवान शिव ने उपाय बताया कि आप अपनी गर्दन को खड़ग से काटकर निकलते हुए ‘शोनित’ (रक्त) को पान करें तो आपकी भूख मिट जायेगी।” तब मां छिन्नमस्तिका ने शिव की बात सुनकर तुरंत अपनी गर्दन को खड़ग से काटकर सिर को बाएं हाथ में ले लिया। गर्दन और सिर अलग हो जाने से गर्दन से खून की तीन धाराएं निकलीं, जो बाएं-दाएं ‘डाकिनी’-‘शाकिनी’ थीं। दो धाराएं उन दोनों की मुख में चली गयीं तथा बीच में तीसरी धारा मां के मुख में चली गयी, जिससे मां तृप्त हो गयीं।

॥ श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रम् ॥

श्रीपार्वत्युवाच —

नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम् ।
कथितं भवता शम्भो सद्यः शत्रु-निकृन्तनम् ॥ १॥

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्र-नाम-पाठे च अशक्तो यः पुमान् भवेत् ॥ २॥

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपा-मय ।

श्री सदाशिव उवाच –

अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा ॥ ३॥

सहस्र्-नाम-पाठस्य फलं प्राप्नोति निश्चितम् ।
ॐ अस्य श्रीछिन्नमस्ताष्टोत्तर-शत-नाअम-स्तोत्रस्य सदाशिव
ऋषिरनुष्टुप् छन्दः श्रीछिन्नमस्ता देवता
मम-सकल-सिद्धि-प्राप्तये जपे विनियोगः ॥

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चण्डेश्वरी चण्ड-माता चण्ड-मुण्ड्-प्रभञ्जिनी ॥ ४॥

महाचण्डा चण्ड-रूपा चण्डिका चण्ड-खण्डिनी ।
क्रोधिनी क्रोध-जननी क्रोध-रूपा कुहू कला ॥ ५॥

कोपातुरा कोपयुता जोप-संहार-कारिणी ।
वज्र-वैरोचनी वज्रा वज्र-कल्पा च डाकिनी ॥ ६॥

डाकिनी कर्म-निरता डाकिनी कर्म-पूजिता ।
डाकिनी सङ्ग-निरता डाकिनी प्रेम-पूरिता ॥ ७॥

खट्वाङ्ग-धारिणी खर्वा खड्ग-खप्पर-धारिणी ।
प्रेतासना प्रेत-युता प्रेत-सङ्ग-विहारिणी ॥ ८॥

छिन्न-मुण्ड-धरा छिन्न-चण्ड-विद्या च चित्रिणी ।
घोर-रूपा घोर-दृष्टर्घोर-रावा घनोवरी ॥ ९॥

योगिनी योग-निरता जप-यज्ञ-परायणा ।
योनि-चक्र-मयी योनिर्योनि-चक्र-प्रवर्तिनी ॥ १०॥

योनि-मुद्रा-योनि-गम्या योनि-यन्त्र-निवासिनी ।
यन्त्र-रूपा यन्त्र-मयी यन्त्रेशी यन्त्र-पूजिता ॥ ११॥

कीर्त्या कर्पादनी काली कङ्काली कल-कारिणी ।
आरक्ता रक्त-नयना रक्त-पान-परायणा ॥ १२॥

भवानी भूतिदा भूतिर्भूति-दात्री च भैरवी ।
भैरवाचार-निरता भूत-भैरव-सेविता ॥ १३॥

भीमा भीमेश्वरी देवी भीम-नाद-परायणा ।
भवाराध्या भव-नुता भव-सागर-तारिणी ॥ १४॥

भद्र-काली भद्र-तनुर्भद्र-रूपा च भद्रिका ।
भद्र-रूपा महा-भद्रा सुभद्रा भद्रपालिनी ॥ १५॥

सुभव्या भव्य-वदना सुमुखी सिद्ध-सेविता ।
सिद्धिदा सिद्धि-निवहा सिद्धासिद्ध-निषेविता ॥ १६॥

शुभदा शुभफ़्गा शुद्धा शुद्ध-सत्वा-शुभावहा ।
श्रेष्ठा दृष्ठि-मयी देवी दृष्ठि-संहार-कारिणी ॥ १७॥

शर्वाणी सर्वगा सर्वा सर्व-मङ्गल-कारिणी ।
शिवा शान्ता शान्ति-रूपा मृडानी मदानतुरा ॥ १८॥

इति ते कथितं देवि स्तोत्रं परम-दुर्लभमं ।
गुह्याद्-गुह्य-तरं गोप्यं गोपनियं प्रयत्नतः ॥ १९॥

किमत्र बहुनोक्तेन त्वदग्रं प्राण-वल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परमं ॥ २०॥

स्तम्भनादिक-कर्माणि ऋद्धयः सिद्धयोऽपि च ।
त्रिकाल-पठनादस्य सर्वे सिध्यन्त्यसंशयः ॥ २१॥

महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्य मनन्य-बुद्धयः ।
पठन्ति ये भक्ति-युता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ॥ २२॥

॥ इति श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् ॥

॥ श्रीछिन्नमस्ताकवचम् ॥

श्रीगणेशाय नमः ।
देव्युवाच ।
कथिताच्छिन्नमस्ताया या या विद्या सुगोपिताः ।
त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥ १॥

इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम् ।
त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो ॥ २॥

भैरव उवाच ।
श्रुणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते ।
त्रैलोक्यविजयं नाम कवचं सर्वमोहनम् ॥ ३॥

सर्वविद्यामयं साक्षात्सुरात्सुरजयप्रदम् ।
धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः ॥ ४॥

ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः ।
कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ॥ ५॥

न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः ।
देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च ॥ ६॥

देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः ।
ऋषिस्तु स्याद्विराट् छन्दो देवता च्छिन्नमस्तका ॥ ७॥

त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः ।
हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा ॥ ८॥

ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरा ।
श्रीं ह्रीं ह्रूं ऐं दृशौ पातु मुण्डं कर्त्रिधरापि सा ॥ ९॥

सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु ।
वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ॥ १०॥

घ्राणं पातु च्छिन्नमस्ता मुण्डकर्त्रिविधारिणी ।
श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ ११॥

हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी ।
स्वपार्श्र्वे वर्णिनी चासृग्धारां पाययती मुदा ॥ १२॥

वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका ।
मुण्डकर्त्रिधरा रक्ता साधकाभीष्टदायिनी ॥ १३॥

वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु ।
रामाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम् ॥ १४॥

कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् ।
रमया पुटिता विद्या पार्श्वौ पातु सुरेश्र्वरी ॥ १५॥

मायया पुटिता पातु नाभिदेशे दिगम्बरा ।
कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु ॥ १६॥

वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका ।
ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ १७॥

हूंफट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा ।
छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका ॥ १८॥

ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् ।
सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदाऽवतु ॥ १९॥

प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु ।
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ॥ २०॥

नैरृत्यां सततं पातु भैरवी पश्चिमेऽवतु ।
इन्द्राक्षी पातु वायव्येऽसिताङ्गी पातु चोत्तरे ॥ २१॥

संहारिणी सदा पातु शिवकोणे सकर्त्रिका ।
इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्त्रिकाः ॥ २२॥

क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके ।
ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकाऽवतु ॥ २३॥

क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमेऽवतु ।
ह्रूं ह्रूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे ॥ २४॥

महाकाली खड्गहस्ता रक्षःकोणे सदाऽवतु ।
तारो माया वधूः कूर्चं फट् कारोऽयं महामनुः ॥ २५॥

खड्गकर्त्रिधरा तारा चोर्ध्वदेशं सदाऽवतु ।
ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती ।
तारा तु सहिता खेऽव्यान्महानीलसरस्वती ॥ २६॥

इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् ।
यद्धृत्वा पठनान्भीमः क्रोधाख्यो भैरवः स्मृतः ॥ २७॥

सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् ।
यस्याज्ञया मधुमती याति सा साधकालयम् ॥ २८॥

भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः ।
आज्ञां गृह्णंति तास्तस्य कवचस्य प्रसादतः ॥ २९॥

एतदेवं परं ब्रह्मकवचं मन्मुखोदितम् ।
देवीमभ्यर्च गन्धाद्यैर्मूलेनैव पठेत्सकृत् ॥ ३०॥

संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
भूर्जे विलिखितं चैतद्गुटिकां काञ्चनस्थिताम् ॥ ३१॥

धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत् ॥ ३२॥

तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् ॥ ३३॥

इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् ।
सोऽपि शत्रप्रहारेण मृत्युमाप्नोति सत्वरम् ॥ ३४॥

॥ इति श्रीभैरवतन्त्रे भैरवभैरवीसंवादे
त्रैलोक्यविजयं नाम छिन्नमस्ताकवचं सम्पूर्णम् ॥

॥ श्रीछिन्नमस्ताअष्टोत्तरशतनामावली ॥

श्रीछिन्नमस्तायै नमः ।
श्रीमहाविद्यायै नमः ।
श्रीमहाभीमायै नमः ।
श्रीमहोदर्यै नमः ।
श्रीचण्डेश्वर्यै नमः ।
श्रीचण्डमात्रे नमः ।
श्रीचण्डमुण्डप्रभञ्जिन्यै नमः ।
श्रीमहाचण्डायै नमः ।
श्रीचण्डरूपायै नमः ।
श्रीचण्डिकायै नमः । १०
श्रीचण्डखण्डिन्यै नमः ।
श्रीक्रोधिन्यै नमः ।
श्रीक्रोधजनन्यै नमः ।
श्रीक्रोधरूपायै नमः ।
श्रीकुहवे नमः ।
श्रीकलायै नमः ।
श्रीकोपातुरायै नमः ।
श्रीकोपयुतायै नमः ।
श्रीकोपसंहारकारिण्यै नमः ।
श्रीवज्रवैरोचन्यै नमः । २०
श्रीवज्रायै नमः ।
श्रीवज्रकल्पायै नमः ।
श्रीडाकिन्यै नमः ।
श्रीडाकिनीकर्मनिरतायै नमः ।
श्रीडाकिनीकर्मपूजितायै नमः ।
श्रीडाकिनीसङ्गनिरतायै नमः ।
श्रीडाकिनीप्रेमपूरितायै नमः ।
श्रीखट्वाङ्गधारिण्यै नमः ।
श्रीखर्वायै नमः ।
श्रीखड्गधारिण्यै नमः । ३०
श्रीखप्परधारिण्यै नमः ।
श्रीप्रेतासनायै नमः ।
श्रीप्रेतयुतायै नमः ।
श्रीप्रेतसङ्गविहारिण्यै नमः ।
श्रीछिन्नमुण्डधरायै नमः ।
श्रीछिन्नचण्डविद्यायै नमः ।
श्रीचित्रिण्यै नमः ।
श्रीघोररूपायै नमः ।
श्रीघोरदृष्ट्यै नमः ।
श्रीघोररावायै नमः । ४०
श्रीघनोदर्यै नमः ।
श्रीयोगिन्यै नमः ।
श्रीयोगनिरतायै नमः ।
श्रीजपयज्ञपरायणायै नमः ।
श्रीयोनिचक्रमय्यै नमः ।
श्रीयोनये नमः ।
श्रीयोनिचक्रप्रवर्तिन्यै नमः ।
श्रीयोनिमुद्रायै नमः ।
श्रीयोनिगम्यायै नमः ।
श्रीयोनियन्त्रनिवासिन्यै नमः । ५०
श्रीयन्त्ररूपायै नमः ।
श्रीयन्त्रमय्यै नमः ।
श्रीयन्त्रेश्यै नमः ।
श्रीयन्त्रपूजितायै नमः ।
श्रीकीर्त्यायै नमः ।
श्रीकपर्दिन्यै नमः ।
श्रीकाल्यै नमः ।
श्रीकङ्काल्यै नमः ।
श्रीकलकारिण्यै नमः ।
श्रीआरक्तायै नमः । ६०
श्रीरक्तनयनायै नमः ।
श्रीरक्तपानपरायणायै नमः ।
श्रीभवान्यै नमः ।
श्रीभूतिदायै नमः ।
श्रीभूत्यै नमः ।
श्रीभूतिदात्र्यै नमः ।
श्रीभैरव्यै नमः ।
श्रीभैरवाचारनिरतायै नमः ।
श्रीभूतसेवितायै नमः ।
श्रीभैरवसेवितायै नमः । ७०
श्रीभीमायै नमः ।
श्रीभीमेश्वरीदेव्यै नमः ।
श्रीभीमनादपरायणायै नमः ।
श्रीभवाराध्यायै नमः ।
श्रीभवनुतायै नमः ।
श्रीभवसागरतारिण्यै नमः ।
श्रीभद्रकाल्यै नमः ।
श्रीभद्रतनवे नमः ।
श्रीभद्ररूपायै नमः ।
श्रीभद्रिकाभद्ररूपायै नमः । ८०
श्रीमहाभद्रायै नमः ।
श्रीसुभद्रायै नमः ।
श्रीभद्रपालिन्यै नमः ।
श्रीसुभव्यायै नमः ।
श्रीभव्यवदनायै नमः ।
श्रीसुमुख्यै नमः ।
श्रीसिद्धसेवितायै नमः ।
श्रीसिद्धिदायै नमः ।
श्रीसिद्धिनिवहायै नमः ।
श्रीसिद्धनिषेवितायै नमः । ९०
श्रीअसिद्धनिषेवितायै नमः ।
श्रीशुभदायै नमः ।
श्रीशुभगायै नमः ।
श्रीशुद्धायै नमः ।
श्रीशुद्धसत्त्वायै नमः ।
श्रीशुभावहायै नमः ।
श्रीश्रेष्ठायै नमः ।
श्रीदृष्टिमयीदेव्यै नमः ।
श्रीदृष्टिसंहारकारिण्यै नमः ।
श्रीशर्वाण्यै नमः । १००
श्रीसर्वगायै नमः ।
श्रीसर्वायै नमः ।
श्रीसर्वमङ्गलकारिण्यै नमः ।
श्रीशिवायै नमः ।
श्रीशान्तायै नमः ।
श्रीशान्तिरूपायै नमः ।
श्रीमृडान्यै नमः ।
श्रीमदनातुरायै नमः । १०८

॥ श्रीछिन्नमस्तास्तोत्रम् ॥

श्रीगणेशाय नमः ।
आनन्दयित्रि परमेश्वरि वेदगर्भे
मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः
सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १॥

लज्जानुगां विमलविद्रुमकान्तिकान्तां
कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते
सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २॥

मायामयीं निखिलपातककोटिकूटविद्राविणीं
भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां
पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३॥

ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पैश्छन्दोऽ-
भिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां
ये वाग्भवे च भवतीं परिभावयन्ति ॥ ४॥

वज्रपणुन्नहृदया समयद्रुहस्ते
वैरोचने मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसि
दिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५॥

वृत्तत्रयाष्टदलवह्निपुरःसरस्य
मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते
कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६॥

कालागरुभ्रमरचन्दनकुण्डगोल-
खण्डैरनङ्गमदनोद्भवमादनीभिः ।
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय
सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७॥

चञ्चत्तडिन्मिहिरकोटिकरां विचेला-
मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे तामीडे
परं परमकर्त्रिकया समेताम् ॥ ८॥

कामेश्वराङ्गनिलयां कलया
सुधांशोर्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां
त्वामाद्रिराजतनये च समानमानाः ॥ ९॥

लिङ्गत्रयोपरिगतामपि वह्निचक्र-
पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा
गुरूक्तहूँकारवायुवशिभिर्मनसा भजन्ति ॥ १०॥।

शुभ्रासि शान्तिककथासु तथैव पीता
स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं
संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११॥

त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः
पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं
षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२॥

जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं
विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं चित्रं
न भूतजननेऽपि जगत्सु पुंसः ॥ १३॥

इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः
पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः
सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४॥

कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री
संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजातीश्वेतैरब्धं
सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५॥

अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां
मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।
आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा हुत्वा
मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६॥

इदं देव्याः स्तोत्रं पठति मनुजो यस्त्रिसमयं
शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा
भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७॥

इति श्रीशङ्कराचार्यविरचितः प्रचण्डचण्डिकास्तवराजः समाप्तः ॥

 

Advertisements
  1. very nice……

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: